संस्कृत कहानी दशमः त्वम् असि
संस्कृत कहानी दशमः त्वम् असि १.३ :- संस्कृतवार्ता शृण्वन्तु चिन्तनं च कुर्वन्तु । ☬ दशमः त्वम् असि ☬ एकदा दश बालकाः स्नानाय नदीम् अगच्छन्।ते नदी जले चिरं स्नानम् अकुर्वन्। ततः ते तीर्वा पारं गताः।तदा तेषां नायकः अपृच्छत् :- अपि सर्वे बालका: नदीम् उत्तीर्णाः? तदा कश्चित् बालकः अगणयत् :- एकः, द्वौ , त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति। सः स्वं न अगणयत्।अतः सः अवदत् :- नव एव सन्ति।दशमः न अस्ति। अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत्।तदा अपि नव एव आसन्।अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिताः तूष्णीम् अतिष्ठन्।तदा कश्चित् पथिकः तत्र आगच्छत्।सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् :- बालकाः!युष्माकं दुःखस्य कारणं किम्? बालकानां नायकः अकथयत् :- ‘वयं दश बालकाः स्नातुम् आगताः।इदानीं नव एव स्मः।एकः नद्यां मग्नः’ इति। पथिकः तान् अगणयत्।तत्र दश बालकाः एव आसन्।सः नायकम् आदिशत् :- त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्।तदा पथिकः अवदत् :- “दशमः त्वम् असि इति।” तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्वे गृहम् अगच्छन्। यह कहानी (दशमः त्व...